|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.324. अध्यायः 324
Mahabharata - Shanti Parva - Chapter Topics
भीष्मण युधिष्ठिरंप्रति दारापत्यादिषु स्नेहत्यागपूर्वकं धर्माचरणचोदकजनकपञ्चशिखसंवादानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-324-0x(6521)(78504)
ऐश्वर्यं वा महत्प्राप्य धनं वा भरतर्षभ।
दीर्घमायुरवाप्याथ कथं मृत्युमतिक्रमेत्॥ 12-324-1(78505)
तपसा वा सुमहता कर्मणा वा श्रुतेन वा।
रसायनप्रयोगैर्वा कैर्नाप्नोति जरान्तकौ॥ 12-324-2(78506)
भीष्म उवाच। 12-324-3x(6522)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
भिक्षोः पञ्चशिखस्येह संवादं जनकस्य च॥ 12-324-3(78507)
वैदेहो जनको राजा महर्षि वेदवित्तमम्।
यर्यपृच्छत्पञ्चशिखं छिन्नधर्मार्थसंशयम्॥ 12-324-4(78508)
केन वृत्तेन भगवन्नतिक्रामेज्जरान्तकौ।
तपसा वाऽथवा बुद्ध्या कर्मणा वा श्रुतेन वा॥ 12-324-5(78509)
एवमुक्तः स वैदेहं प्रत्युवाचापरेक्षवित्।
निवृत्तिर्नैतयोरस्ति नातिवृत्तिः कथंचन॥ 12-324-6(78510)
न ह्यहानि निवर्तन्ते न मासा न पुनः क्षपाः।
सोयं प्रपद्यतेऽध्वानं चिराय ध्रुवमध्रुवः॥ 12-324-7(78511)
सर्वभूतसमुच्छेदः स्रोतसेवोह्यते सदा।
ऊह्यमानं निमज्जन्तमप्लवे कालसागरे॥ 12-324-8(78512)
जरामृत्युमहाग्राहे न कश्चिदतिवर्तते।
नैवास्य कश्चिद्भवति नासौ भवति कस्यचित्॥ 12-324-9(78513)
पथि संगतमेवेदं दारैरन्यैश्च बन्धुभिः।
नायमत्यन्तसंवासो लब्धपूर्वो हि केनचित्॥ 12-324-10(78514)
क्षिप्यन्ते तेनतेनैव निष्टनन्तः पुनः पुनः।
कालेन जाता याता हि वायुनेवाभ्रसंचयाः॥ 12-324-11(78515)
जरामृत्यू हि भूतानां खादितारौ वृकाविव।
बलिनां दुर्बलानां च ह्रस्वानां महतामपि॥ 12-324-12(78516)
एवंभूतेषु भूतेषु नित्यभूताध्रवेषु च।
कथं हि हृष्येज्जातेषु मृतेषु च न संज्वरेत्॥ 12-324-13(78517)
कुतोऽहमागतः कोऽस्मि क्व गमिष्यामि कस्य वा।
कस्मिन्स्थितः क्व भविता कस्मात्किमनुशोचसि॥ 12-324-14(78518)
द्रष्टा स्वर्गस्य न ह्यस्ति तथैव नरकस्य च।
आगमास्त्वनतिक्रम्य दद्याच्चैव यजेत च॥ ॥ 12-324-15(78519)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुविंशत्यधिकत्रिशततमोऽध्यायः॥ 324॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-324-14 कुतस्त्वमागतः क्वासि त्वं गमिष्यसि कस्यवेति ड. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|